|
|
 |
 |
|
|
२ सभापर्व.jpg)
॥ श्रीः ॥
2.13. अध्यायः 013
Mahabharata - Sabha Parva - Chapter Topics
मन्त्रिभिः सह संमन्त्र्य कृतराजसूयकरणनिश्चयस्य युधिष्ठिरस्य श्रीकृष्णम्प ्रति दूतप्रेषणम्॥ 1॥ दूतेन सह इन्द्रप्रस्थमागतं श्रीकृष्णम्प्रति युधिष्ठिरोक्ति ॥ 2॥
Mahabharata - Sabha Parva - Chapter Text
वैशम्पायन उवाच॥
ऋषेस्तद्वचनं श्रुत्वा निशश्वास युधिष्ठिरः।
चिन्तयन्राजसूयेष्टिं न लेभे शर्म भारत॥ 2-13-1(11814)
राजर्षीणां च तं श्रुत्वा महिमानं महात्मनाम्।
यज्वनां कर्मभिः पुण्यैर्लोकप्राप्तिं समीक्ष्य च॥ 2-13-2(11815)
हरिश्चन्द्रं च राजर्षि रोजमानं विशेषतः।
यज्वानं यज्ञमाहर्तुं राजसूयमियेष सः॥ 2-13-3(11816)
युधिष्ठिरस्ततः सर्वानर्चयित्वा सभासदः।
प्रत्यर्चितश्च तैः सर्वैर्यज्ञायैव मनो दधे॥ 2-13-4(11817)
स राजसूयं राजेन्द्र कुरूणामृषभस्तदा।
आहर्तुं प्रवणं चक्रे मनः सञ्चिन्त्य चासकृत्॥ 2-13-5(11818)
भूयश्चाद्भुतवीर्यौजा धर्ममेवानुचिन्तयन्।
किं हितं सर्वलोकानां भवेदिति मनो दधे॥ 2-13-6(11819)
अनुगृह्णन्प्रजाः सर्वाः सर्वधर्मभृतां वरः।
अविशेषेण सर्वेषां हितं चक्रे युधिष्ठिरः॥ 2-13-7(11820)
सर्वेषां दीयतां देयं मुष्णन्कोपमदावुभौ।
साधु धर्मेति धर्मेति नान्यच्छ्रूयेत भाषितम्॥ 2-13-8(11821)
एवं गते ततस्तस्मिन्पितरीवाश्वसञ्जनाः।
न तस्य विद्यते द्रेष्टा ततोऽस्याजातशत्रुता॥ 2-13-9(11822)
परिग्रहान्नरेन्द्रस्य भीमस्य परिपालनात्।
शत्रूणां क्षपणाच्चैव बीभत्सोः सव्यसाचिनः॥ 2-13-10(11823)
`बलीनां सम्यगुत्थानान्नकुलस्य यशस्विनः'।
धीमतः सहदेवस्य धर्माणामनुशासनात्॥ 2-13-11(11824)
वैनत्यात्सर्वतश्चैव नकुलस्य स्वभावतः।
अविग्रहा वीतभयाः स्वकर्मनिरताः सदा॥ 2-13-12(11825)
निकामवर्षाः स्फीताश्च आसञ्जनपदास्तथा।
वार्धुषी यज्ञसत्वानि गोरक्षं कर्षणं वणिक् ॥ 2-13-13(11826)
विशेषात्सर्वमेवैतत्सञ्जज्ञे राजकर्मणा।
अनुकर्षं च निष्कर्षं व्याधिपावकमूर्छनम्॥ 2-13-14(11827)
सर्वमेव न तत्रासीद्धर्मनित्ये युधिष्ठिरे।
दस्युभ्यो वञ्चकेभ्यश्च राज्ञः प्रति परस्परम्॥ 2-13-15(11828)
राजवल्लभतश्चैव नाश्रूयत मृषाकृतम्।
प्रियं कर्तुमुपस्थातुं बलिकर्म स्वकर्मजम्॥ 2-13-16(11829)
अभिहर्तुं नृपाः षट्सु पृथक्जात्यैश्च नैगमैः।
ववृधे विषयस्तत्र धर्मनित्ये युधिष्ठिरे॥ 2-13-17(11830)
कामतोऽप्युपयुञ्जानै राजसैर्लोभजैर्जनैः।
सर्वव्यापी सर्वगुणी सर्वसाहः स सर्वराट्॥ 2-13-18(11831)
यस्मिन्नधिकृतः सम्राड् भ्राजमानो महायशाः।
यत्र राजन्दश दिशः पितृतो मातृतस्तथा।
अनुरक्ताः प्रजा आसन्नागोपाला द्विजातयः ॥ 2-13-19(11832)
स मन्त्रिणः समानाय्य भ्रातृंश्च वदतां वरः।
राजसूयं प्रति तदा पुनः पुनरपृच्छत॥ 2-13-20(11833)
ते पृच्छ्यमानाः सहिता वचोऽर्थ्यं मन्त्रिणस्तदा।
युधिष्ठिरं महाप्राज्ञं यियक्षुमिदमब्रुवन्॥ 2-13-21(11834)
येनाभिषिक्तो नृपतिर्वारुणं गुणमृच्छति।
तेन राजाऽपि तं कुत्स्नं सम्राड्गुणमभीप्सृति॥ 2-13-22(11835)
तस्य सम्राड्गुणार्हस्य भवतः कुरुनन्दन।
राजसूयस्य समयं मन्यन्ते सुहृदस्तव॥ 2-13-23(11836)
तस्य यज्ञस्य समयः स्वाधीनः क्षत्रसम्पदा।
साम्ना षडग्नयो यस्मिंश्चीयन्ते शंसितव्रतैः॥ 2-13-24(11837)
दर्वीहोमानुपादाय सर्वान्यः प्राप्नुते क्रतून्।
अभिषेकं च यज्ञान्ते सर्वजित्तेन चोच्यते॥ 2-13-25(11838)
समर्थोऽसि महाबाहो सर्वे ते वशगा वयम्।
अचिरात्त्वं महाराज राजसूयमवाप्स्यसि॥ 2-13-26(11839)
अविचार्य महाराज राजसूये मनः कुरु।
इत्येवं सुहृदः सर्वे पृथक्च सह चाब्रुवन्॥ 2-13-27(11840)
स धर्म्यं पाण्डवस्तेषां वचः श्रुत्वा विशाम्पते।
धृष्टमिष्टं वरिष्टं च जग्राह मनसाऽरिहा॥ 2-13-28(11841)
श्रुत्वा सुहृद्वचस्तच्च जानंश्चाप्यात्मनः क्षमम्।
`स प्रशस्तक्रियारम्भः परीक्षामुपचक्रमे॥ 2-13-29(11842)
वैशम्पायन उवाच॥ 2-13-30x(1397)
चतुर्भिर्भीमसेनाद्यैर्भ्रातृभिः सहितो हितम्।
एवमुक्तस्तथा पार्थो धर्म एव मनो दधे॥ 2-13-30(11843)
स राजसूयं राजेन्द्रः कुरूणामृषभः क्रतुम्।
जगाम मनसा सद्य आहरिष्यन्युधिष्ठिरः॥ 2-13-31(11844)
भूयस्त्वद्भुतवीर्योपि धर्ममेवानुपालयन् '।
पुनः पुनर्मनो दध्रे राजसूयाय भारत॥ 2-13-32(11845)
स भ्रातृभिः पुनर्धीमानृत्विग्निश्च महात्मभिः।
मन्त्रिभिश्चापि सहितो धर्मराजो युधिष्ठिरः॥ 2-13-33(11846)
धौम्यद्वैपायनाद्यैश्च मन्त्रयामास मन्त्रवित्।
`विराटद्रुपदाभ्यां च सात्यकेन च धीमता॥ 2-13-34(11847)
युधामन्यूत्तमौजोभ्यां सौभद्रेण च धीमता।
द्रौपदेयैः परं शूरैर्मन्त्रयामास संवृतः॥ 2-13-35(11848)
युधिष्ठिर उवाच'॥ 2-13-36x(1398)
भवन्तो राजसूयस्य सम्राडर्हस्य सुक्रतोः।
श्रद्दधानस्य वदत ममावाप्तिः कथं भवेत्॥ 2-13-36(11849)
वैशम्पायन उवाच। 2-13-37x(1399)
एवमुक्तास्तु ते तेन राज्ञा राजीवलोचन।
इदमूचुर्वचः काले धर्मराजं युधिष्ठिरम्॥ 2-13-37(11850)
अर्हस्त्वमसि धर्मज्ञ राजसूयं महाक्रतुम्।
अथैवमुक्ते नृपतावृत्विग्भिर्ऋषिभिस्तथा॥ 2-13-38(11851)
मन्त्रिणो भ्रातरश्चास्य तद्वचः प्रत्यपूजयन्।
स तु राजा महाप्राज्ञः पुनरेवात्मनाऽऽत्मवान्॥ 2-13-39(11852)
भूयो विममृशे पार्थो लोकानां हितकाम्यया।
सामर्थ्ययोगं सम्प्रेक्ष्य देशकालौ व्ययागमौ॥ 2-13-40(11853)
विमृश्य सम्यक् च धिया कुर्वन्प्राज्ञो न सीदति।
नहि यज्ञसमारम्भः केवलात्मविनिश्चयात्॥ 2-13-41(11854)
भवतीति समाज्ञाय यत्नतः कार्यमुद्वहन्।
स निश्चयार्थं कार्यस्य कृष्णमेव जनार्दनम्॥ 2-13-42(11855)
सर्वलोकात्परं मत्वा जगाम मनसा हरिम्।
अप्रमेयं महाबाहुं कामाञ्जातमजं नृषु॥ 2-13-43(11856)
पाण्डवस्तर्कयामास कर्मभिर्देवसंमतैः।
नास्य किञ्चिदविज्ञातं नास्य किञ्चिदकर्मजम्॥ 2-13-44(11857)
न स किञ्चिन्न विषहेदिति कृष्णममन्यत।
स तु तां नैष्ठिकीं बुद्धिं कृत्वा पार्थो युधिष्ठिरः ॥ 2-13-45(11858)
गुरुवद्भूतगुरवे प्राहिणोद्दूतमञ्जसा।
शीघ्रगेन रथेनाशु स दूतः प्राप्य यादवान्॥ 2-13-46(11859)
द्वारकावासिनं कृष्णं द्वारवत्यां समासदत्।
` स प्रभुं प्राञ्जलिर्भूत्वा व्यज्ञापयत माधवम्॥ 2-13-47(11860)
दूत उवाच॥ 2-13-48x(1400)
धर्मराजो हृषीकेश धौम्यव्यासादिभिः सह।
पाञ्चालमात्स्यसहितैर्भ्रातृभिश्चैव सर्वशः॥ 2-13-48(11861)
त्वद्दर्शनं महाबाहो काङ्क्षते स युधिष्ठिरः॥ 2-13-49(11862)
वैशम्पायन उवाच॥ 2-13-50x(1401)
इन्द्रसेनवचः श्रुत्वा यादवप्रवरो बली'।
दर्शनाकाङ्क्षिणं पार्थं दर्शनाकाङ्क्षयाच्युतः॥ 2-13-50(11863)
`आमन्त्र्य राजन्सुहृदो वसुदेवं च माधवः'।
इन्द्रसेनेन सहित इन्द्रप्रस्थमगात्तदा।
व्यतीत्य विविधान्देशांस्त्वरावान्क्षिप्रवाहनवः॥ 2-13-51(11864)
इन्द्रप्रस्थगतं पार्थमभ्यगच्छज्जनार्दनः।
स गृहे पितृवद्धात्रा धर्मराजेन पूजितः॥ 2-13-52(11865)
भीमेन च ततोऽपश्यत्स्वसारं प्रीतिमान्पितुः।
प्रीतः प्रीतेन सुहृदा रेमे स सहितस्तदा॥ 2-13-53(11866)
अर्जुनेन यमाभ्यां च गुरुवत्पर्युपासितः।
तं विश्रान्तं शुभे देशे क्षणिनं कल्पमच्युतम्।
धर्मराजः समागम्य ज्ञापयत्स्वप्रयोजनम्॥ 2-13-54(11867)
युधिष्ठिर उवाच॥ 2-13-5x(1402)
प्रार्थितो राजसूयो मे न चासौ केवलेप्सया।
प्राप्यते येन तत्ते हि विदितं कृष्ण सर्वशः॥ 2-13-55(11868)
यस्मिन्सर्वं सम्भवति यश्च सर्वत्र पूज्यते।
यश्च सर्वेश्वरो राजा राजसूयं स विन्दति॥ 2-13-56(11869)
तं राजसूयं सुहृदः कार्यमाहुः समेत्य मे।
तत्र मे निश्चिततमं तव कृष्ण गिरा भवेत्॥ 2-13-57(11870)
केचिद्धि सौहृदा देवे न दोषं परिचक्षते।
स्वार्थहेतोस्तथैवान्ये प्रियमेव वदन्त्युत॥ 2-13-58(11871)
प्रियमेव परीप्सन्ते केचिदात्मनि यद्धितम्।
एवम्प्रायाश्च दृश्यन्ते जनवादाः प्रयोजने॥ 2-13-59(11872)
त्वं तु हेतूनतीत्यैतान्कामक्रोधौ व्युदस्य च।
परमं यत्क्षमं लोके यथावद्वक्तुमर्हसि॥ ॥ 2-13-60(11873)
इति श्रीमन्महाभारते सभापर्वणि मन्त्रपर्वणि त्रयोदशोऽध्यायः॥ 13॥
Mahabharata - Sabha Parva - Chapter Footnotes
2-13-13 वार्धुषी वृद्ध्युपजीविका। यज्ञसत्वानि कतूना सामर्थ्यानि सद्यः पुष्कलफलप् रदत्वादिविषयाणि॥ 2-13-14 अनुकर्ष दारिद्र्याद्राजकीयद्रव्यस्यातीतवर्षस्य ऋणत्वेन धारणम्। निष्कर्ष करार्थं प्रजापीडनम्। अवर्षणं चातिवर्षं इति क. पाठः। मूर्छनं वृद्धिः॥ 2-13-17 नैगमैर्वणिग्भिः सह आसन्निति शेवः। इतरे नृपा विणिग्वद्येन करदीकृता इत्यर् थः। तत्र तस्मिन् विषयोदेशः॥ 2-13-18 लोभजैर्विमोहोत्थैराजसरैर्वृत्तिविशेषैस्तृष्णादिभिस्तादृशैरपि ववृधे वृद्ध िमानभूत्॥ 2-13-22 येन कारेण वारुणं गुणं वृद्धिं। तेन कारणेना॥ 2-13-52 भ्रात्रा पितृष्वसृजेन॥ 2-13-54 क्षणिनं सावसरम्। कल्पं समर्थम् ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|